पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
186
[बालकाण्डः
श्रीरामाद्यवतारः

 मृगया इति निपातः-आखेटः, तमुद्दिश्येति यावत् । सधनुः-धनुस्सहितः । परिपालयन्, रामशरीरमिति शेषः । अयं तु लक्ष्मणस्य भक्त्यतिशयप्रवृत्तः स्वाभाविको व्यापारः, न तु लोकरक्षकस्य रामस्य स्वशरीररक्षणे परापेक्षाऽस्ति ॥ ३० ॥

 भरतस्यापि शत्रुघ्नः लक्ष्मणावरजो हि सः ॥ ३१ ॥
 प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ।

 हि-यस्मात् शत्रुघ्नो लक्ष्मणावरजः-अवरकालप्राशित कैकेयीपिण्डांशजः, तस्माल्लक्ष्मणो रामस्येव भरतस्य शत्रुघ्नः प्रिय आसीदित्यर्थः ॥ ३१ ॥

 स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३२ ॥
 बभूव परमप्रीतो देवैरिव पितामहः ।

 चतुर्भिर्देवैः पितामह इवेति । 'वसवः पुरस्तात् रुद्रा दक्षिणतः, आदित्याः पश्चात्, विश्वेदेवा उत्तरतः' इति श्रुतेः भगवच्चतुर्मुखजैः भगवत्पुत्रैर्वस्वादिभिः तथेन्द्रयमवरुणकुबेरैश्च भगवत्पुत्रैर्भगवानिव परमप्रीत इत्यर्थः ॥ ३२ ॥

 ते यदा ज्ञानसम्पन्नास्सर्वे समुदिता गुणैः ॥ ३३ ॥
 ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।

 ज्ञानादिकं व्याकृतम् ॥ ३३ ॥

 तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् ॥ ३४ ॥
 पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।

 तेषां पिता दशरथः तत्पुत्रलाभतः हृष्टो बभूव । यथा भूरादिब्रह्मलोकान्तसावर्तनावर्तनसकललोकस्य, अस्मच्छरीरेषु वयमिव, साक्षा-