पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
16

 इमे च माधवयोगिनः किंसिद्धान्तावलम्बिन इति विचारयामः-

 बालकाण्डव्याख्यायामन्ते सर्वास्वपि मातृकासु अयं श्लोकः परिदृश्यते ।

 यः सर्वोपनिषद्व्याख्यामङ्गलाभरणं व्यधात् ।
 ब्रह्मजिज्ञासतां, तस्मै नमो माधवयोगिने' ॥

इति । अयं श्लोकः मातृकालेखकैः तच्छिष्यैः लिखितः स्यात् ।

 उपनिषन्मङ्गलाभरणनामकः कश्चन ग्रन्थः अमुद्रित उपलभ्यते । प्रसिद्धैरुपनिषद्व्याख्यातृभिः अव्याख्याता बह्वय उपनिषदः तत्र व्याख्याता वर्तन्ते । ग्रन्थकारनामादिकं तु न पश्यामः । अथवा विषयदृष्ट्या, शैलीपरिशीलनेन, पूर्वोदाहृतश्लोकवलेन, तत्रापि 'सर्वोपनिषद्व्याख्या' पदावलोकनेन च एभिरेव माधवयोगिभिर्विरचितं तदिति स्पष्टं वक्तुं शक्यते । विस्तरस्तु परस्तात् ।

 इमे च न विवर्ताद्वैतिनः[१]; केषांचिदभिप्रायवत् नापि विशिष्टाद्वैतिनः[२] । किन्तु परिणामाद्वैतिनः इति रामायणव्याख्यायाः, उपनिषन्मङ्गलाभरणस्य च दर्शनेन स्पष्टमवगम्यते ।

 परिणामाद्वैतिनौ च द्वौ, भास्करः, यादवप्रकाशश्च । नेमे भास्करपक्षानुसारिणः, यतः उपनिषन्मङ्गलाभरणे परमहंसस्य सन्यासिनः त्रिदण्डादीनामपि परित्यागः एभिः कथितः । भास्करस्य तु त्रिदण्डित्वेनैव प्रसिद्धिः ।


  1.  तैत्तरीयोपनिषद्व्याख्यायां 'तत्सत्यमित्याचक्षते' इत्यस्य व्याख्यानावसरे विर्वर्तवादिसम्मतं जगन्मिथ्यात्वं विस्तरशः खण्डयित्वा जगत्सत्यत्वं स्थापितम् ।
  2.  मद्रास् नगरीय प्राच्यकोशागारीयानुक्रमणिकायां (Alphabetical Index of Sanskrit Manuscripts) तथा निर्दिष्टम् ।  उपनिषन्मङ्गलाभरणे, अत्रैव रामायणव्याख्यायां च ब्रह्मण एव जीवभावावबोधनात् नेमे विशिष्टाद्वैतिनः । प्रथमसर्गीय. 12-17 श्लोकव्याख्यां च पश्यत ।