पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
15

माधवयोगिनां देशः

 अयं च माधवयोगी दाक्षिणात्यः द्राविड इत्यवगम्यते । तथा हि मङ्गलश्लोके-

 'कालहस्तीशमेकाम्रनाथं वेदगिरीश्वरम् ।
 स्वमनःप्राणदेहान्तस्थितांस्त्रीन् ब्रह्मणो भजे ॥'

इति कालहस्तिनाथं, काञ्चयां विद्यमानं एकाम्रनाथं, तिरुक्कलु कुन्रम् (xxxxxxxxxx) इति प्रसिद्धक्षेत्रे विद्यमानं वेदगिरीश्वरं च स्तौत्ययम् । इदं च क्षेत्रत्रयं मद्रास् नगरप्रान्त एव वर्तते । अतोऽयं तत्प्रान्तीय एव स्यात् ।

 किञ्च व्याख्यायां मध्ये मध्ये वृक्षाद्यसाधारणनाम्नां द्राविडभाषया विवरणं दृश्यते [१] सर्वास्वपि मातृकासु दर्शनात् नेदं लेखकानामेवेति संशेतुं शक्यम् । द्राविडपदस्य परित्यागे 'सारसः (288 फुटे) इत्यादिव्याख्येयपदग्रहणमेव व्यर्थमापद्येत; पर्याय-संस्कृतपदादर्शनात् ।

 किञ्च 'पिपासा' इत्यस्मिन्नर्थे 'दाह' पदं प्रयुङ्क्तेऽयम्[२] । पिपासाया दाहशब्देन व्यवहारः द्राविडभाषायामेव दृश्यते ।

 अपि च 'विवाहः' इत्यस्मिन्नर्थे 'कल्याण' पदं प्रयुङ्क्तेऽयम् । [३]अयमपि व्यवहारः द्राविडभाषायामेव ।

 किं बहुना ! अयोध्याकाण्डे सप्ततितमसर्गे 'रथान् मण्डलचक्रान्' इति श्लोके-मण्डलाकारतया रथप्रवर्तनसाधनं चक्रं-मण्डलचक्रम्-चतुर्दिक्चक्रमध्यस्थं; यथाऽस्माभिः काञ्चयादावनु-भूयते' इति व्याकुर्वन्तो माधवयोगिनः काञ्चीप्रान्तीया इति सुस्पष्टमवगच्छामः ।


  1. यथा-223फुटे-'झिल्लिका- xxxx' इत्यादि । तथा 288 पुटे 'सारसः- xxxxxx इत्यादि । अयोध्याकाण्डादावप्येतादृशानि पदानि बहूनि दृश्यन्ते ।
  2. बाल 37 सर्गे 30 श्लोकव्याख्या द्रष्टव्या ।
  3. 67-28 श्लोकव्याख्यां, 68-5 श्लोकव्याख्यां च पश्यत ।