यथा तथा वा भवतु । तिलकव्याख्यायाः नागेशभट्टकालिकत्वं तु निर्विवादम् । नागेशभट्टकालश्च क्रि-श-1730-1810 इत्यभिप्रयन्ति ।[१]
एवञ्च क्रैस्तषोडशतशतकान्तिमभागस्थनारायणतीर्थशिष्यानां महेश्वरतीर्थानां, महेश्वरतीर्थानन्तरकालिकानां क्रैस्तसप्तदशशतकोत्तरभागे स्थितानां गोविन्दराजानां च कतकव्याख्यायां उल्लेखदर्शनात्, 1730-1810 कालिके तिलके कतकोल्लेखनाच्च कैस्तशक- स्य सप्तदशशतकोत्तरभागादारभ्याष्टादशे पूर्वभागपर्यन्तः (माकिं 1675-1750) माधवयोगिनां काल इति भावयामः ।[२]
एतावता प्रबन्धेन एते माधवयोगिनः [३]सायणमाधवादन्या इति स्पष्टम् ।
पलब्धम्-रामवर्मणा कृतमध्यात्मरामायणस्य एकं व्याख्यानं उपलभ्यते । तदारंभे इमे श्लोका दृश्यन्ते-
शृङ्गबेरपुरेशेन रिपुकक्षवाग्निना ।
अर्थिनां कल्पवृक्षेण विद्वजनसभासदा ॥
भट्टनागेशशिष्येण बध्यते रामवर्मणा ।
सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ ॥
इति । शब्देन्दुशेखरारंभे, रामायणतिलकव्याख्यायां च उपलभ्यमानान् लोकान् उपरितनश्लोकांश्च परामृशतां अर्थनिर्णयः अतिसुलभ एव । एवं 'भट्टनागेशपूज्येन' इत्यत्र 'भट्टनागेशशिष्येण' इत्येतदनुसारात् बहुव्रीहिरेवेति च न पृथग्वक्तव्यम् ॥