पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
13

 एवं स्थिते तिलकस्य नागेशविरचितत्वेन व्यवहारे इदमेव मूलं स्यात् ।

 तिलकव्याख्यायां-युद्धकाण्डान्ते 'निर्मलं कतकक्षोदात्' इत्यादिश्लोकसमनन्तरं अयं श्लोको दृश्यते-

 'भट्टनागेशपूज्येन सेतुः श्रीरामवर्मणा ।
 कृतः सर्वोपकृतये श्रीमद्रामायणाम्बुधौ ॥'

इति । अत्र नागेशभट्टनामदर्शनात् तिलकस्य नागेशभट्टविरचितत्वेन कैश्चिल्लिपिकारैः मातृकासु निर्देशः कृतः, एवं मातृकादर्शनतः रामवर्मैव रामतीर्थः कृतः इति च प्रतिभाति ।[१]


  1. इदमत्रालोचनीयम्–भट्टनागेशेत्यादिश्लोके कर्तृवाचकं पदं किम् ? भट्टनागेशपूज्यपदं वा ? श्रीरामवर्मपदं वा ? नानयोर्विशेषणविशेष्यभावेनान्वयो युक्तः । तदानीं 'पूज्येन' इति पदमनन्वितम् । ब्राह्मणस्य नागेशस्य 'वर्म' उपददकत्वं च न संभवति । 'शर्म' पदस्थाने 'वर्म' पदं प्रामादिकं स्याद्वा ? इत्यपि न युक्तम् । तदा हि एकस्यैव 'गृहस्थाश्रमे नागेशभट्ट इति, सन्यासाश्रमे च 'रामशर्म' इति नामेति निर्वाह्यम् । सन्यासिनोऽपि शर्मोप- पदक्रत्वमयुक्तमेव । 'श्रीरामयोगिना' इत्येव लिखेत्तदा ।  अतो वयमेवं भावयामः-भट्टनागेशः शब्देन्दुशेखरारम्भे एवं लिखति-

    'याचकानां कल्पतरोररिकक्षहुताशनात् ।
    शृङ्गवेरपुराधीशात् रामतो लब्धजीविकः ॥'

    इति । अत्र शृङ्गवेरपुराधीशत्वेन निर्दिष्टो राम एव पूर्वश्लोके 'रामवर्म' पदेन निर्दिष्टः, क्षत्रियाणां 'वर्मो 'पपदकत्वात् । तादृशरामालब्धजीवि-कत्वात् नागेशभट्टस्य तस्मिन् कार्तज्ञयमूलकः पूज्यभावः असीत् । अतः 'भट्टनागेशपूज्येन' इति विशेषणं दत्तम् । अथवा भट्टनागेशः पूज्यः यस्येति बहुव्रीहिर्वा ।

     परन्तु तिलककर्ता राम एव स्यात्, न तु नागेशभट्ट इति भावयामः । अत एव उत्तरकाण्डान्ते-'रामो रामायणाम्भोधौ सेतुं कृत्वा सुविस्तरम् ।' इति श्लोके नागेशभट्टनाम न निर्दिष्टमिति ।

     एवं विमर्शत्स्वस्मासु अस्मत्पक्षमेव सिद्धान्तयत् स्पष्टं प्रमाणान्तरमप्यु-