पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12

सप्तदशशतकारम्भे वा स्युः । तच्छिष्याः महेश्वरतीर्थाश्च सप्तदशशतकपूर्वभागे स्युः । [१]-इति कतककृतां माधवयोगिनां कालः-तदनन्तरमेवेति निश्चीयते ।

 एवं पूर्वावधौ निश्चिते उत्तरावधिं एवं निश्चिनुमः । तिलकनाम्नः रामायणव्याख्यानस्य कर्ता 'रामः' स्वव्याख्यायां कतकं बहुश उद्धरति । विशिष्य युद्धकाण्डान्ते एवं वदति ।

 'निर्मलं कतकक्षोदादपि रामायणार्णवम् ।
 अत्यन्तं निर्मलं चक्रे रामः स्वमतिवाससा ॥' इति ।

 उत्तरकाण्डान्ते-अयमेव श्लोकः-'रामायणार्णवम्' इति-स्थाने-'रामायणाम्बुधिम्' इति किञ्चिद्यत्यस्तो दृश्यते ।

 अयं च तिलककर्ता 'रामः' कः ? इति संशये नागेशभट्टस्यैव 'रामः' इति नामान्तरमिति केचिदभिप्रयन्ति । कुत्रचित् तालपत्रेषु अन्ते तथा निर्देशोऽपि दृश्यते । शिरोमणिव्याख्याकर्ताऽपि तिलकसम्मतं पाठं निर्दिशन्[२] 'इति भट्टपाठ इति बहुश-उल्लिखति । तत्र-नागेशभट्ट एव भट्टपदाभिधेय इति भाति । परन्तु तिलकव्याख्यातुर्न तथोक्तिं पश्यामः । 'रामाभिरामे श्रीरामीये' इत्येव सर्वत्र दृश्यते । पूर्वोक्तश्लोकेऽपि 'रामः' इत्येव स्वनामानं निर्दिष्टवान् सः ।

 नागेशभट्टस्यैव उत्तराश्रमे 'रामतीर्थः' इति नाम स्यादिति केचिदभिप्रयन्ति । परन्तु तीर्थोपपदं तु तस्य नाम न कुत्रापि पश्यामः ।


  1. गोविन्दराजाश्च सप्तदशशतकोत्तरभागेस्युः गोविन्दराजानां कालविषये श्री. K. V. रङ्गस्वामैय्यङ्गार्याः, श्री. P. P. S. शास्त्रिणश्च अन्यथान्यथैवाभिप्रायमाविष्कुर्वन्ति (See page 30 & 414 in Silver Jubilee Volume of Bhandarkar Oriental Research Institute, Poona.) तत्सर्वस्यात्राप्रस्तुतत्वान्नाधिकं लिखामः ।
  2. बा. 4-4 श्लो, 4-7 श्लो, 4. 34. श्लोकानां शिरोमणिव्याख्याद्रष्टव्या ।