पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
11

 अत्र प्रथमपादेन प्रायः गोविन्दराजव्याख्यां, द्वितीयपादेन महेश्वरतीर्थव्याख्यां चैते कटाक्षयन्तीति प्रतिभाति । यतः उत्तरत्र बहुषु स्थलेषु प्राय इमे एव व्याख्याने एते खण्डयन्ति ।

माधवयोगिनां कालः

 गोविन्दराजैः महेश्वरतीर्थनाम्नः उल्लेखात् [१]महेश्वरतीर्थेभ्यः अर्वाचीनाः गोविन्दराजा इति स्पष्टमवगम्यते । स्वीयव्याख्या-रम्भे नारायणतीर्थान् नमस्कुर्वन्ति [२]महेश्वरतीर्थाः । महेश्वरतीर्थाः नारायणतीर्थानां [३]पुत्रा इति, शिष्या इति च विवादः । 'देशिकान्' इति पदप्रयोगात् शिष्या एत इति स्वरसम् । उभयथाऽपि नारायणतीर्थकालनिर्णये महेश्वरतीर्थानामपि कालः निर्णीयेत । नारायणतीर्थैः मधुसूधन सरस्वतीविरचित सिद्धान्त-विन्दोः व्याख्या कृतेति [४]ज्ञायते । अपि च नारायणतीर्थाः स्वीय-भक्तिचन्द्रिकाग्रन्थे मधुसूदनसरस्वतीः उल्लिखन्ति च । एतेन ज्ञायते-प्रथमं मधुसूदनसरस्वत्यः, ततः नारायणतीर्थाः, ततः महेश्वरतीर्थाः, ततः गोविन्दराजाः, ततो माधवयोगिनः इति क्रमः इति । मधुसूधनसरस्वतीनां कालश्च [५]कैस्त 1540 – 1623–इति ज्ञायते । एवञ्च नारायणतीर्थाः क्रैस्त-षोडशशतकान्तिमभागे


  1. अयो- 101 सर्गारंभे अत्र महेश्वरतीर्थेन–'इत्यादिवाक्यं द्रष्टव्यम् ।
  2. 'प्रणमम्य नारायणतीर्थदेशिकान्-'इत्यादिश्लोको द्रष्टव्यः ।
  3. See page 414 of Silver Jubilee Vol. of Bhandarkar Oriental Research Institute, Poona.
  4. नारायणतीर्थविरचितायाः काश्यां सरस्वतीभवनात् प्रकाशितायाः भक्तिचन्द्रिकायाः भूमिकां पश्यत ।
  5. काश्यां सरस्वतीभवनात् प्रकाशितायाः मधुसूदनसरस्वतीविरचितवेदान्तकल्पलतिकाया भूमिकां पश्यत । महामहोपाध्याया अनन्तकृष्ण-शास्त्रिमहोदया अपि स्वसंपादिते 'न्यायामृताद्वैतसिद्धी' ग्रन्थारंभे षोडशशत-कान्तिमभाग एव मधुसूदनसरस्वतीनां काल इति वदन्ति ।