स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥' इति ॥
भगवान् वाल्मीकिः स्वाधीनसर्वशब्दः 'कुशलवौ' इति वक्तव्ये किमिति 'कुशीलवौ' इति तौ तत्र तत्र निर्दिशति ? रामायणगानानुगुणसंगीतज्ञानस्वरसंपत्त्यादिकं तयोरासीदितीममर्थं प्राधान्येन सूचयितुमेव तथा प्रायुङ्केति मन्यामहे ।
एवञ्च एतादृशाधिकारिण एव भगवता स्वकृतरामायणप्रचारणाय ग्रहणात् नूनं महर्षिर्वाल्मीकिः स्वकृतेः पठ्यकाव्यत्वापेक्षया गेयकाव्यत्वमेव बहुमन्यत इति वयं विभावयामः ।
महर्षिर्वाल्मीकिः
रामायणविषये, तत्कर्तुः महर्षेः वाल्मीकेः कालादिविषये च पराक्रान्तं सूरिभिः । एतद्विषये वक्तव्यं सर्वे पश्चाद्विचारयामः । महाभारतकोशवत् रामायणकोशमपि विस्तृतं रामायणगतसर्व-विशेषार्थसङ्ग्राहकं प्रकटीचिकीर्षवो वयम् । अतस्तद्विषये इदानीं नाधिकं प्रस्तूयते ।
श्रीमाधवयोगिनः
अमृतकतकव्याख्यातुः अपरिचितत्वेन तस्य परिचयमात्रं इदानीं क्रियते । अधिकं तु परस्तात् ।
अस्य व्याख्यानस्य कर्ता च 'माधवयोगी' इति तत्तत्काण्ड-व्याख्याया अन्तिमवाक्यादवगम्यते । सुगृहीतनामधेयः सायणमाधवो वा अयं ? उतान्यः ? इति विचारणायां द्वितीय एव पक्षः प्रतिष्ठितो भवति ।
कतकव्याख्यानोद्देशः
स्वव्याख्याया उद्देशमेवमेते प्रकटयन्ति व्याख्यारम्भे-
'असङ्गतव्याकृतिपांसुपङ्किलं
रामायणं तीर्थसमुद्धृतामृतम् ।
योगीन्द्रवाणीकतकाद्विपङ्किलं
सर्वोपकारक्षममस्तु सर्वदा ॥' इति ।