पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
17

 एवं तत्त्वनिरूपणप्रक्रियाऽपि भास्करसिद्धान्तापेक्षया विलक्षणा दृश्यते । अतोऽयमन्ततः यादवप्रकाशमतानुसारीति वक्तव्यम् । यादवप्रकाशमतीयग्रन्थस्य कस्याप्यनुपलंभेन एतदपि न निर्धारयितुं शक्यम् ।

 अथ वा अन्यमेव ब्रह्मपरिणामवादं इमे माधवयोगिनः स्वातन्त्र्येण स्थापयन्ति वेत्यपि उत्प्रेक्षितुमवकाशो वर्तते; यत एभिः उपनिषदो व्याख्याताः, [१]आकरग्रन्थोल्लेखश्च तत्र तत्र दृश्यते ।

 सर्वथा तु एते व्याख्यातारः वैदुष्ये, निष्पक्षपातित्वे च गणनार्हा एवेति व्याख्याद्रष्टृणां स्वयं भासेत ।

 एते व्याकरणशस्त्रे, वेदान्ते च केवलं न निष्णाताः; अपि तु तन्त्रमन्त्रशस्त्रे, योगशास्त्रे, रसशास्त्रे चात्यन्तं परिश्रमशालिन इति एतद्व्याख्याद्रष्टृभिः स्पष्टमवगम्येत ।

एतद्व्याख्यानस्य शैली, वैशिष्ट्यं च

 एतद्व्याख्यानस्य शैली तु किञ्चिद्विचित्रैव दृश्यते । तत्रापि वेदान्त-मन्त्रतन्त्ररसवादादिप्रक्रियानिरूपणावसरे अत्यन्त विचित्रैव दृश्यते ।

 ग्रन्थेषु श्लोकप्रक्षेपादिकं कथं भवतीत्यमुमंशं एते स्पष्टं विशदयन्ति । यथा 78 पुटे–'प्राचीनेन केनचित् सर्गश्लोक-संख्या गणन स्मार्तश्रोत्रियश्लोकवत् स्वमतिसौकर्यसिद्धये रथूलदृशा संख्यापरिज्ञानाय कृतोऽयं श्लोको ग्रन्थसमीपे च लिखितः । तत्तु मूलग्रन्थान्तर्गतमिति भ्रान्त्या स्वेषामपि सामान्यतः संख्यापरिज्ञानमस्त्विति प्राचीनैरपि ग्रन्थान्तः परिक्षिप्तः । सर्वथाऽयं श्लोकः प्रक्षिप्त एव । अस्य व्याख्याने प्रत्यक्षस्वप्नदर्शन- निमित्तवैषम्यतश्च वयं प्रक्षिप्तत्वं निरचैषिष्म' इति ।


  1. अस्मिन्नेव संपुटे 48 पृष्ठे 'अस्मदन्तेवास्यनुग्रहाय यद्वक्तव्यं तत् आकरे प्रपञ्चितम्' इति दृश्यते । उपनिषन्मङ्गलाभरणेऽपि महानारायणीय-विवरणे 'आकरे सिद्धान्तद्वितीयसूत्रे यावच्छक्यं तत्रैव द्रष्टव्यम्' इत्युक्तम् ।