पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
174
[बालकाण्ड:
ऋक्षवानराद्युत्पत्तिः

 ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।
 चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ ९ ॥
 वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।
 सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १० ॥

 एवमिति । वक्ष्यमाणप्रकारस्तावत् ; देवराजः-इन्द्रो वालिनं जनयामास । कथमिदं भगवन्नियोगविपरीतया राघवारातिमेव भगवानिन्द्रस्सृजति! उच्यते–अवतीर्णदेवसेनानुग्रहक्षमराजसिद्धये स्वतुल्य[१]पराक्रमवालिसर्गः । नास्य रामस्य च किञ्चिन्निमित्तमरातित्वम् । अपि त्वेतत्सख्ये रामस्य वृत्ते अयमेव सीतां क्षणात्प्रत्यर्पयेत् वाली । रावणः चिरकक्षपीडितः [२]तच्चीटीमात्रेण स्वयमेव भीतः सीतां प्रत्यर्पयेत् । ततश्च देवकार्यं न संवृत्तं स्यात् । अत एवास्य वधः स्वसमान-दुःखसापेक्षसुग्रीवसख्याय । अतो यावत्सुग्रीवराज्यं देवसेनारक्षणप्रयोजन एव वालिसर्गः । अपि च रामोऽपि महाबलत्वात् स्वयमन्यसख्यं न प्रार्थयेत् । वाली तु सुतरां अकण्टकमहाबलमहाराजो निष्प्रयोजनं रामसख्यं कटाक्षेणापि नेक्षेत । तथा च देवसेनानां सीतान्वेषणादिरामकृत्यानुपयोगः । अत उक्तमेव प्रयोजनम् ॥ १० ॥

 बृहस्पतिस्त्वजनयत् तारं नाम महाहरिम् ।
 सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ ११ ॥
 धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
 विश्वकर्मा त्वजनयत् नलं नाम महाहरिम् ॥ १२ ॥
 पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।
 तेजसा यशसा वीर्यात् अत्यरिच्यत वानरान् ॥ १३ ॥


  1. पराक्रममेव वालि-ग.
  2. तच्चीत्कारमात्रेण-ग.