गन्धर्वीणामिति । 'जातेरस्त्रीविषयात्' इति ङीष् । तथा विद्याधरीष्वित्यपि ॥ ५ ॥
किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥
हरिरूपेणेति । वानररूपेणेति यावत् । ननु मनुष्यरूपेणैव कुतो नावयवदेवानामप्यवताराः । उच्यते –वनवासे सीतापहारादेव रावणस्य शीर्षछेद्यत्वे प्राप्ते तत्र च तपस्विनो रामस्य मनुष्यवेषैरशक्यसंहारसहायत्वात्, वानरशब्दस्यान्वर्थत्वतो मनुष्यवत्सुकरव्यवहारत्वात, नन्दिना कृतस्य रावणशापस्य समर्थत्वाच्च । तथा हि–दिग्विजये रावणं नन्दिकेश्वरो भगवान् [१]रावणकृतपरिहासश्शशाप- "तस्मान्मद्रूप-संयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः" इति । अकथकमेकं नास्ति । तुल्यपराक्रमानिति । [२]स्वतुल्य-पराक्रमानित्यर्थः, यथाबीजं तथाङ्कुरमिति न्यायेन ॥ ६ ॥
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ ७ ॥
यद्देहपरिग्रहनियोगः? इत्यत्र कार्यार्थमस्माभिरप्यपारमितज्ञानायुरैश्वर्यवन्तो ये सृष्टाः, तादृशां अंशतस्स्वीकृत्येत्याह-पूर्वमित्यादि । विराड्व्यतिरिक्तब्रह्मसृष्टेरनेकमूलत्वादाह-जृम्भमाणस्येत्यादि । सहसाद्रागिति यावत् ॥ ७ ॥
ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ ८ ॥