रूपद्रविणसम्पन्नौ अश्विनौ रूपसम्मतौ ।
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४ ॥
रूपेण-लक्षणेन, द्रविणेन-वित्तेन सम्पन्नौ तथा । अत एव रूपसम्मतमैन्दद्विविदयोस्सर्गः । रूपसम्मताविति मत्वर्थीयोऽच् । प्रशस्तरूपवत्वेन सर्वलोकसम्मतावित्यर्थः ॥ १४ ॥
वरुणो जनयामास सुषेणं नाम वानरम् ।
शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ १५ ॥
पर्जन्यः-जगद्वर्षानुग्रहकरभगवद्देवराजमूर्त्यन्तरम् ॥ १५ ॥
मारुतस्यात्मजः श्रीमान् हनूमान् नाम वानरः ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १६ ॥
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।
वज्रवदभेद्यसंहननोपेतः । तथा वानरमुख्याः-सुग्रीवादयस्सुषेणान्ताः ॥ १६ ॥
ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ॥ १७ ॥
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।
दशग्रीववधे रता इति । भविष्यति निष्ठा [१]छान्दसी, रंस्यमाना इति यावत् । अपि च ये रता भविष्यन्ति तादृशा बहुसाहस्राः सृष्टा इति । धातुसम्बन्धे प्रत्यया इति साधुः ॥ १७ ॥
मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ॥ १८ ॥
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।
गोपुच्छाः–वानरविशेषाः ॥ १८ ॥
- ↑ छन्दसि-क.