पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्गः]
169
पायसं प्राशयत् राजा पुत्रीयं सहधर्मिणी:

 सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्
 पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ २६ ॥

 आत्मन इति । स्वस्या इत्यर्थः । 'मनः' इति ङीब्निषेधः ॥ २६ ॥

 कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
 अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥ २७ ॥
 कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।
 प्रददौ चावशिष्टाधं पायसस्यामृतोपमम् ॥ २८ ॥
 अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ।

 कौसल्याया इत्यादि । अत्रेदं ब्रह्मविद्भिर्मामकैरनुसन्धेयम्  'पुष्पवद्धिरण्यरजश्शचीन्द्रौ धीस्वयम्भुवौ' इत्युपदिष्टाश्वमेधमहायागविकारश्रीमद्ब्रह्मयोगराज-ब्रह्मविद्याविलासप्रकृतिभूताष्टब्रह्मविद्यातदर्थपुण्यकर्मपरमकाष्ठाश्वमेधप्राप्यफलश्रीहिरण्यगर्भतेजोमयमूलविद्यायाः प्राजापत्यपादे ऋश्यश्रृङ्गबीजान्वयात् श्रीहिरण्यगर्भपादे च गर्भबीजान्वयात् विहितगर्भशक्तिमत्पायसं अष्टब्रह्मविद्यात्मत्वात् अष्टांशं भवति । तस्यास्य पुष्पवतोः भास्करसौरसरस्वतीस्वयम्भुमयांशचतुष्टयमेकमर्धं भवति । चन्द्रपरोरजश्शचीन्द्रमयांशचतुष्टयमपरमर्धं भवति । एवं प्रथमतो द्विधाकृतस्य [१]पायसस्यार्धं स्वायम्भुवान्नापरीतं प्रधानमहिष्यै कौसल्यायै प्रथमं ददौ । अनन्तरमस्यै दत्तमर्धं च द्विधाकृत्य तु तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं योगप्रधानां कौसल्यामनु-ब्रतायै सुमित्रायै ददौ । अयमेव भागो भास्करात्मा लक्ष्मणः । ततश्च कौसल्यायां धीस्वयम्भूसौरभागास्त्रयः स्थिताः । अन्तः पूर्णशक्तिर्भगवान् हिरण्यगर्भो रामः । अथैन्द्रमर्धं कैकेय्यै ददौ । तदपि द्विधा कृत्वा अथ तयोश्चैकमर्धं द्विधा कृत्वा तदेकभागं च भोगपत्नी कैकेयीमप्यनुव्रतायै


  1. तत्पायसस्य-ग.