पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्गः]
167
स ददौ पायसं दिव्यं राज्ञः सन्ततिवर्धकम्

 अतः परमिति । प्राजापत्यं मां विद्धीत्युक्त्यनन्तरम् । ततः-तत एव हेतोः । गतभीस्सन् राजा कृताञ्जलिः प्रत्युवाच । महाभूता-कारतयोत्थानात्कृत्ययेव नाशशङ्कामीतः पश्चात्प्राजापत्यत्वश्रवणान्निर्भय उवाच ॥ १७ ॥

 अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।
 राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १८ ॥

 देवानिति ब्रह्मादीनर्चयता–हयमेधपूर्वकपुत्रकामेष्टयेति यावत् ॥ १८ ॥

 इदं तु नरशार्दूल ! पायसं देवनिर्मितम् ।
 प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ १९ ॥

 इदमिति किमित्यतः-इदं त्वित्यादि । देवनिर्मित[१]मिति । देवनिर्मितजलपृथिवीमयभूलोके निजकार्यावताराय प्रजेश[२]विष्ण्वात्मनावतरितव्यत्वात् परमान्नमयप्रजापतिविष्ण्वात्मना देवेन श्रीहिरण्यगर्भेण निर्मितं, अत एव ते प्रजाकरं, धन्यं; 'स्वर्गादिभ्यो यत्' इति यत् ; व्युत्पत्तिमात्रमिदम् । प्रशस्तमिति यावत् ॥ १९ ॥

 भार्याणामनुरूपाणामश्रीतेति प्रयच्छ वै ।
 तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ! ॥ २० ॥

 भार्याणामिति षष्ठी छान्दसी । भार्याभ्य इति यावत् । अनु-रूपाः-त्वदनुकूलाः एतत्प्राशनोचिताश्चेत्यर्थः, अशभोजने-तस्मात् थस्य तादेशः । 'ईहल्यघोः' इतीत्वम् । यजस इति कर्त्रभिप्रायत्वात् ॥ २० ॥


  1. मित्यादि-ग.
  2. विश्वात्मना-क.