पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
166
[बालकाण्ड:
पायसोत्पत्ति:

 [१]दिवाकरसमाकारं दीप्तानलशिखोपमम् ।
 तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १४ ॥
 दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।
 प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १५ ॥

 दिवाकरसमाकारमिति प्रभामण्डलवत्त्वांशे दृष्टान्तः । तैक्ष्ण्यांशे दृष्टान्तः-दीप्तानलशिखोपममिति । राजतो-रजतविकारः अन्ते-उपरि परिच्छदः-पिधानपात्रं—यस्यास्सा तथा । पात्रीति लिङ्गसामान्यात् । प्रियां पत्नीमिवेति। अयं कविसमाधिः । स्वयं दोर्भ्यां परिगृह्य प्रादुर्भूत-मित्यन्वयः । भावे निष्ठा । मायामयीमिव । इव शब्द एवार्थे । भगवतो हिरण्यगर्भस्याचिन्त्यशक्तिदेवमायाविर्भावितामेवेत्यर्थः ॥ १५ ॥

 समवेक्ष्याब्रवीद्वाक्यं इदं दशरथं नृपम् ।
 प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ! ॥ १६ ॥

 दशरथं समवेक्ष्येति योजना । प्राजापत्यं- "पत्यन्तपुरोहितादिभ्यो यक्" इत्यपत्यादिप्राग्दीव्यतीयाधिकारे[२]ण्यप्रत्ययः, प्रजापतिपुत्रः प्रजापतिनिसृष्टः–प्रजापतेरागत इत्याद्यर्थः ॥ १६ ॥

 अतः परं ततो राजा प्रत्युवाच कृताञ्जलिः ।
 भगवन् ! स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १७ ॥


  1. एतदनन्तरं–सिंहस्कन्धं महाबाहुमङ्गदद्वयशोभितम् ॥ ताराविकृतकल्पेन हारेणोरसिराजितम् । ताराधिपतिकल्यैश्च दन्तैः परमशोभितम् । ज्वलन्निव च तंजोभिदीपयन्निव च श्रिया तप्तजाम्बूनदमयैर्भूषणैर्भूषितं च यत्-इदमधिकं ङ.
  2. 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः इति प्राग्दीव्यतीयो ण्यप्रत्यः-गो.अयमेव पाठः साधुरिति भाति.