त्वं गतिः परमा देव ! सर्वेषां नः परन्तप !
वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥ २५ ॥
हे देव ! नस्सर्वेषां अत्र विषये त्वमेव परमा गतिः-उपायः । नृणामिति । 'नृच' इति पाक्षिको नामि न दीर्घः । मनः कुर्विति । अवतरितुमिति शेषः ॥ २५ ॥
एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः ।
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ॥ २६ ॥
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ।
भयं त्यजत भद्रं वः, हितार्थं युधि रावणम् ॥ २७ ॥
सपुत्रपौत्रं सामात्यं समित्रज्ञातिवान्धवम् ।
हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् ॥ २८ ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥ २९ ॥
हत्वा वत्स्यामीति योजना ॥ २९ ॥
एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् ।
मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ ३० ॥
चिन्तयामासेति । यथा देवैराज्ञप्तं तथेति शेषः ॥ ३० ॥
ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥ ३१ ॥
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिः तुष्टुवुर्मधुसूदनम् ॥ ३२ ॥
दिव्यरूपाभिः स्तुतिभिस्तुष्टुवुः ॥ ३२ ॥