मनुष्ठेयमित्यभिध्याय भगवानपि स्वप्रधानमूर्त्या ब्रह्मणा समागत्य देवकार्येण समाहितस्तस्थौ ॥ १७ ॥
तमब्रुवन् सुरास्सर्वे समभिष्टूय संनताः ।
त्वां नियोक्ष्यामहे विष्णो! लोकानां हितकाम्यया ॥ १८ ॥
सन्नताः-प्रणता इति यावत् । हे विष्णो ! त्वां नियोक्ष्यामह इति ।
प्रागुक्तरीत्या भूमावतारस्य त्वदेकसाध्यत्वादिति भावः ॥ १८ ॥
राज्ञो दशरथस्य त्वं अयोध्याधिपतेर्विभोः ।
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ॥ १९ ॥
तस्य भार्यासु तिसृषु हीश्रीकीर्त्युपमासु च ।
विष्णो! पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ॥ २० ॥
कस्मिन्नियुङ्ध्व इत्यतो राज्ञ इत्यादि । अत्रत्यराजराजपत्नीविशेषणं विष्णोरवतारयोग्यताप्रतिपादकम् ॥ २० ॥
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।
अवध्यं दैवतैर्विष्णो ! समरे जहि रावणम् ॥ २१ ॥
कुतो ममैष नियोग इत्यतः--अवध्यं दैवतैरित्यादि । 'कृत्यानां कर्तरि वा' इति पक्षे तृतीया । जहि-हन्तेर्जः ॥ २१ ॥
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ।
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते ॥ २२ ॥
ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा ।
क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥ २३ ॥
वधार्थं वयमायातास्तस्य वै मुनिभिस्सह ।
सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ २४ ॥