पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः]
159
तत्रागतैः सुरैर्युक्तो ब्रह्मा विष्णुं तदाब्रवीत्

 एवमुक्त इति । भगवान् ब्रह्मेति शेषः । हन्तेत्यनुकम्पायाम् ॥ १२ ॥

 तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।
 अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३ ॥

 अयमिति क इत्यतः-तेनेत्यादि । तत् तथास्त्वित्युक्तमिति योजना ॥ १३ ॥

 नाकीर्तयदवज्ञानात् तद्रक्षो मानुषांस्तदा ।
 तस्मात् स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ १४ ॥

 तदेति । अवध्यत्ववरणसमय इत्यर्थः । मृत्यु:-मृतिसाधकमिति यावत् ॥ १४ ॥

 एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
 सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा ॥ १५ ॥

 प्रहृष्टा इति । मनुष्यद्वारेणापि वधश्रवणजस्सन्तोषः ॥ १५ ॥

 एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
 शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥ १६ ॥
 वैनतेयं समारुह्य भास्करस्तोयदं यथा ।
 तप्तहाटककेयूरो बन्धमानस्सुरोत्तमैः ॥ १७ ॥
 ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः ।

 एतस्मिन्नन्तर इति । मनुष्याद्वधश्रवणजसर्वदेवतासन्तोषकाल इति यावत् । सर्वास्वपि देवतासु भूमावतारो भूमशक्तिप्राधान्यान्मदेकसाध्यः, विशिष्य तु देवारातिसंहारकः । अतो मयेदं सर्वदेवताप्रीतिकरं कृत्य-