पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
158
[बालकाण्डः
ब्रह्माणं प्रति देवानां प्रार्थना

 त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा ।
 मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ ७ ॥

 कुतो युष्मद्बाधनक्षमवीर्यलाभ इत्यतः-त्वयेत्यादि । युष्माकमपि दत्तमेव वीर्यमस्माभिरित्यत्र-मानयन्तश्च तमिति । सर्वदेवताभिरवध्यत्वरूपो यो वरो दत्तस्तं परिपालयन्त इति यावत् ॥ ७ ॥

 उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।
 शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८ ॥

 त्रिदशराजानमिति । प्रागप्युक्त मनित्यस्समासान्त इति ॥ ८ ॥

 ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा ।
 अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ ९ ॥

 असुराः-राहुप्रमुखाः आजानजदेवयोनयः ॥ ९ ॥

 नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
 चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १० ॥

 न प्रतपतीति-अन्तर्भाविताणः, न तापयतीति यावत् । एवमादिकं तत्कार्यातिशयप्रकाशनपरम् । चलोर्मिभिः मालाऽस्यास्तीति तथा, व्रीह्यादित्वादिनिः ॥ १० ॥

 तन्महन्नो भयं तस्माद्राक्षसाद्धोरदर्शनात् ।
 वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥ ११ ॥
 एवमुक्तस्सुरैस्सर्वैचिन्तयित्वा ततोऽब्रवीत् ।
 हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥ १२ ॥