पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ सर्गः ]
157
सोऽपि प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात्

 इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
 अथर्वशिरसि प्रोक्तैः मन्त्रैः सिद्धां विधानतः ॥ २ ॥

 किमब्रवीदित्यतः-इष्टिमित्यादि । पुत्रकारणात्-पुत्रप्राप्तिहेतोः, ते पुत्रीयां--पुत्र प्राप्तिनिमित्तभूताम्, निमित्ताधिकारे 'पुत्राच्छ च' इति छः, अथर्वशिरसि प्रोक्तैः मन्त्रैः विधानतः–कल्पसूत्रतः सिद्धामिष्टिं करिष्यामि । इत्युक्त्वेति शेषः ॥ २ ॥

 ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।
 जुहाव चाग्यौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ ३ ॥

 मन्त्रदृष्टेनेति । मन्त्रपूर्वकतया कल्पसूत्रदृष्टेनेत्यर्थः ॥ ३ ॥

 ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
 भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ४ ॥

 ततः-तत्रेति यावत् ॥ ४ ॥

 ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
 अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत् ॥ ५ ॥

 तस्मिन् सदसि ता देवतास्समेत्येति । अन्तर्धानशक्तया मर्त्यानवलोकितमिति शेषः । लोककर्तारं– यज्ञदेवतायज्ञपशुयज्ञकर्तृमयसंसारस्रष्टारं भगवन्तं [१]सावित्र्यंशं विराजं ब्रह्माणमिति यावत् ॥ ५ ॥

 भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
 सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ ६ ॥


  1. सवित्र्यर्थं-ख.