पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
156
[बालकाण्ड:
पुत्रीयेष्टिः

 पूर्वं यज्ञार्थं प्रसवार्थं स्वर्गार्थं च वृत ऋश्यशृङ्गः । तत्र यज्ञस्तद्वारा स्वर्गश्च सिद्धः । ततस्तत्सिद्ध्यनन्तरं अवशिष्टार्थे युङ्क्त इत्युच्यते–तत इत्यादि । कुलं वर्धयतीति कुलवर्धनम्, तादृशं कर्मेति यावत् ॥ सम (५७) मानः ॥ ५७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्दशः सर्गः

पञ्चदशः सर्गः

[पुत्रीयेष्टिः, विष्णुं प्रति देवानां प्रार्थना च]

 मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।
 लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ १ ॥

 अथ जलपृथिवीप्रघाधानस्थूलभूमविग्रहोपग्रहस्य विराजो ब्रह्मणो जलप्राधान्येन प्रजापत्यात्मना सृष्टत्रिस्रोतस [१]आहरतः तत्संसारप्रवृत्तये तद्वारा पालनसिद्धये भूमप्राधान्येन विष्ण्वात्मना युगे युगेऽवतारनैसर्गस्य प्रतीतान्नपानादिदेहयात्रात्रिमलवन्निजभूमविग्रह यात्रा वशजत्रिमलस्य रावणादित्रिरक्ष: परिणतस्य संहाराय त्रेतायामपि यथाप्राप्त-कालोचितावतारो दशरथपुत्रप्रवृत्तिप्रसङ्ग उपदिश्यते– मेधावीत्यादिना । ततः–पुत्रोत्पादन प्रतिश्रवानन्तरम् । मेधावी-सदा स्वबुद्धिभृताशेषवेदशास्त्रः । अत एव सदा [२]वेदज्ञः-स्वरूपतोऽर्थतश्च वेदतत्ववित् । स ऋश्यशृङ्गः। प्रतिश्रुतांशनिर्वाहाय किं कर्तव्यमिति निश्चेतुं किञ्चित्कालं विकल्पसमाधौ स्थितो ध्यात्वा तत इदमुत्तरं-इदमिहोत्तरमनुष्ठेयकृत्यमिति निश्चित्य पश्चात् लब्घसंज्ञः-समाधिव्युत्थितः तं तु नृपमब्रवीत् ॥ १ ॥


  1. आहरन्तं-क. ग.
  2. सर्वश-ग.