[१]दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।
कस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ ५२ ॥
अथ सर्वदक्षिणादानानन्तरमागताय दरिद्राय याचमानाय दातव्यवस्त्वन्तराभावात् स्वकमेव हस्ताभरणमेव ददौ ॥ ५२ ॥
ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।
प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ ५३ ॥
तस्याशिषोऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।
उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ ५४ ॥
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।
पापापहं स्वर्नयनं [२]दुस्तरं पार्थिवर्षभैः ॥ ५५ ॥
तत इति । तेन च हस्ताभरणस्य दानेनेत्यर्थः । विविधाशिष इति । आब्रह्मन्' 'आयुष्मन्तम्' इत्याद्याः । उदार:-उन्नतचित्तः । पापापहमिति । 'अपे क्लेशतमसोः' इति हन्तेर्डः । पापमेवेह क्लेशतम:-पर्यायाश्रयणेन गृह्यते । अत एव स्वर्नयनं स्वर्गप्रापकं दुस्तरं प्राकृतेन तरितुमशक्यं, अप्राप्यपारमिति यावत् ॥ ५५ ॥
ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।
कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत ! ॥ ५६ ॥
तथेति स राजानमुवाच द्विजसत्तमः ।
[३]भविष्यति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ५७ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्दशः सर्गः