पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
154
[बालकाण्ड:
अश्वमेधः

 भूमेर्व्यतिरेकेण मया देयं किंचिद्वा किं स्यादित्यतः–मणिरत्नमित्यादि । मणिरत्नं–मणिश्रेष्ठं; अनर्घरत्नमिति यावत् । तस्य राजैकार्हत्वात् पक्षान्तरं–सुवर्णं वेत्यादि । समुद्यतमिति । उपस्थितमिति यावत् ॥ ४६ ॥

 एवमुक्तो नरपतिः ब्राह्मणैर्वेदपारगैः ॥ ४७ ॥
 गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।
 दशकोटीस्सुवर्णस्य रजतस्य [१]चतुर्दश ॥ ४८ ॥

 शतसहस्राणि दशेति । दशलक्षमिति यावत् । चतुर्दशेति । चतुर्दशकोटीरिति यावत् ॥ ४८ ॥

 ऋत्विजस्तु ततस्सर्वे प्रददुः सहिता वसु ।
 ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ ४९ ॥

 ततस्सर्वे ऋत्विजः सहिताः सर्वं वसु दक्षिणाप्राप्तं धनजातमङ्गीकृत्य दानाय ऋश्यशृङ्गवसिष्ठाभ्यां ददुः ॥ ४९ ॥

 ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।
 सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ५० ॥

 न्यायतः प्रविभागं कृत्वेति योजना । वसिष्ठादिद्वारा विभज्य गृहीत्वेति यावत् । सुप्रीतमनसः सन्तो राजानं प्रति, सर्वे वयं भृशं मुदिता इत्यूचुः ॥ ५० ॥

 ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।
 जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ ५१ ॥

 प्रसर्पकेभ्यो ब्राह्मणेभ्य इति । परिचारकद्विजेभ्य इति यावत् । जाम्बूनदं हिरण्यमिति । दशवर्णसुवर्णमिति यावत् ॥ ५१ ॥


  1. चतुर्गुणम्-ङ.