पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
153
क्रतुं समाप्य राजा तु सर्वेभ्यो दक्षिणां ददौ

 प्राचीमित्यादि । 'प्रतिदिशं दक्षिणां ददाति, प्राचीं होतुः दक्षिणां ब्रह्मणः प्रतीचीं अध्वर्योरुदीचीं उद्गातुः' इति सूत्राद्दिशो दक्षिणात्वेन विनिर्मिताः-विहिता इति यावत् । स्वयंभूविहित इति ।'प्रजापतिरश्वमेधमसृजत' इति श्रुतेः ॥ ४२ ॥

 क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।
 [१]ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥ ४३ ॥
 ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।
 भवानेव महीं कृत्स्नां एको रक्षितुमर्हति ॥ ४४ ॥

 हि-यस्मात् ऋत्विग्भ्यः सर्वां धरां ददौ, तस्मात् सर्व ऋत्विजो राजानमब्रुवन् । किमब्रुवन् इत्यत्र-भवानित्यादि ॥ ४४ ॥

 न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।
 रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ! ॥ ४५ ॥
 निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ।

 न भूम्या कार्यमस्माकमिति । भूमेर्भोगेकप्रयोजनत्वात् न तया नः किंचित्प्रयोजनमित्यर्थः । अपि च तस्याः पालने चोरनिवारणादिद्वारके वयं न हि शक्ताः स्म । कुत इत्यतः-रता इत्यादि । स्वाध्यायकरण इति । स्वाध्यायाभ्यासकर्मणीति यावत् । नापि च दण्डादाबस्माकमधिकार इति शेषः । निष्क्रयमित्यादि । 'मूल्यं वस्तु निष्क्रयश्च' इति पर्याय: । मया दत्तकृत्स्त्रभुवो कथं मूल्यं शक्यदानमित्यतः-किञ्चिदेवेति । यथाशक्ति स्वल्पमेवेति यावत् ॥ ४५ ॥

 मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ॥ ४६ ॥
 तत्प्रयच्छ नरश्रेष्ठ! धरण्या न प्रयोजनम् ।


  1. एतदनन्तरं-एवं दत्वा प्रहृष्टोऽभूच्छ्रीमानिक्ष्वाकुनन्दनः ॥ इदमधिकं-ङ.