पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
151
तेषां वपादीन् जुहुवुः ऋत्विजोऽथ यथाविधि

 राज्ञो भोगात् बहिष्कृता परिवृत्तिः, राज्ञो वल्लभा महिषी, भुजिष्या वावाता, महिषी परिवृत्तिभ्यां सह वावातां अपरे श्रेष्ठा होत्रादयो हयेन समयोजयन् ॥ ३३ ॥

 पतत्रिणस्तस्य वपां उद्धृत्य नियतेन्द्रियः ।
 ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रतः ॥ ३४ ॥
 धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।
 यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ ३५ ॥

 वपां-चन्द्राख्यं मेदः "चन्द्रनामा मेदोऽस्ति तदुद्धरति नास्य वपा विद्यते' इति सूत्रात् । परमेण- श्रौतप्रयोगचातुर्येण सम्पन्नस्तथा । निर्णुदन् जिघ्रति स्मेति योजना ॥ ३४ ॥ ३५ ॥

 हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।
 अग्नौ प्रास्यन्ति विधिवत् [१] सवसाः षोडशर्त्विजः ॥ ३६ ॥

 तानि सर्वाणि ब्राह्मणाः इत्यार्षं गुर्वक्षरम् । सवसाः-वसा-सहिताः ॥ ३६ ॥

 प्लक्षशाखासु यज्ञानां अन्येषां क्रियते हविः ।
 अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ ३७ ॥

 अन्येषां-अश्वमेधातिरिक्तयागानां पाशुकं हविः प्लक्षशाखासु क्रियते-निधायावदीयते । अश्वमेधस्य यज्ञस्य योऽयमाश्वो हविर्भागः स वैतसो भवति, वैतसे कटे निधायावदातव्यो भवति । वैतस इति शैषिकोऽण्, दार्षदाः सक्तव इत्यादिवत् ॥ "वैतसः कटो भवति" इति श्रुतेः ॥ ३७ ॥


  1. समन्त्राः-उ.