पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
150
[बालकाण्ड:
अश्वमेध:

इत्यतः–उरगा इत्यादि । 'इन्द्राय राज्ञे सूकरः' इत्याद्यनुवाकैस्ते प्रतिपादिताः ॥ २८ ॥

 शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।
 ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ २९ ॥

 तथा हयश्च शामित्रे-मरणविशसनादिकर्मणि नियुक्तं-नियतं-बद्धं ॥ २९ ॥

 पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।
 अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ ३० ॥

 अश्वरत्नेषु-अश्वश्रेष्ठेषूत्तमः-श्रेष्ठस्तथा । नियत इत्यनुकर्षः ॥ ३० ॥

 कौसल्या तं हयं तत्र परिचर्य समन्ततः ।
 कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ ३१ ॥

परिचर्य-प्रोक्षणादिना संस्कृत्य । त्रिभिः कृप्राणै:-शस्त्रैः एनं-अश्वं परमया मुदा विशशास । 'महिष्योऽश्वस्यासिपथान् कल्पयन्ति' इति सूत्रम् ॥ ३१ ॥

 पतस्त्रिणा तदा सार्धं सुस्थितेन च चेतसा ।
 अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ ३२ ॥

 पतत्रिणा-अश्वेन, पुरा अश्वानां पतस्त्राणि सन्तीति प्रसिद्ध्या त्वेवं वादः । सुस्थितेन-स्थिरेण चेतसा उपलक्षिता सती धर्मकाम्यया ; काम्यजन्तादकारप्रत्यये टाप् ॥ ३२ ॥

 होताऽध्वर्युस्तथोद्गाता हयेन समयोजयन् ।
 महिष्या परिवृत्त्या च वावातामपरे तथा ॥ ३३ ॥