पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
149
बद्धा यूपेषु पशवस्तत्तदुद्दिश्य दैवतम्

 आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।
 सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २५ ॥

 यथा विराजन्ते तथा व्यराजन्तेत्यनुकर्षः ॥ २५ ॥

 इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।
 चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २६ ॥

 यथान्यायमिति । अर्धेष्टकामण्डलेष्टकादयश्च यथा चेत् न्यायात्-सूत्रादनपेता भवन्ति तथेत्यर्थः । कारिता इति । शिल्पविद्भिरिति शेषः । अग्निरिति श्रौतमिष्टकानां नाम । शुल्बकर्मणि कुशलैः ब्राह्मणैरग्निश्चितः-कृतचयनः ॥ २६ ॥

 स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।
 गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २७ ॥

 एवं चित्यः-चेतव्यः चित्याग्निचित्ये च' इति निपातः । सः-अग्निः कुशलैश्चितः । कथं चित इत्यतः-गरुड इत्यादि । गरुडसंस्थानः । रुक्मपक्ष इति । 'सहस्रहिरण्यशल्कैः प्रतिदिशमग्निं प्रोक्षति' इति सूत्रात् रुक्मपक्षत्वम् । एवं पाङ्क्ते, अग्निः-अग्न्याधारभूतो देश इत्याह कश्चित् । त्रिगुणः-त्रिगुणप्रस्तारः । अत एव अष्टादशात्मकः-अष्टादशप्रस्तारात्मकः सञ्चित इत्यन्वयः । 'षट् चितयो भवन्ति' इति श्रुतेः श्येनः षट्चितिको भवति प्रकृतिः, अश्वमेधस्य तत्रैगुण्यविधानादष्टादशगुणात्मकः ॥ २७ ॥

 नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।
 उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ २८ ॥

 नियुक्त इति । 'अमुष्मै त्वा जुष्टं नियुनज्मि' इति देवतोदेशेन नियुक्ताः । तदेवोक्तम्-तत्तदुद्दिश्य दैवतामति । के ते पशव