पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
[बालकाण्ड:
अश्वमेध:

ययोस्तौ तथा । "एवं च राज्जुदालमनिष्ठं मिनोति" इत्यनुवाकोपदिष्टा एकविंशतियूपा इहोक्ताः । "पौतुद्रवावभितो भवतः" इति श्रुतेः राज्जुदालयूपस्योभयपार्श्वतो देवदारुयूपौ भवतः । तत्रैकपार्श्ववर्तिदेवदारुयूपस्य दक्षिणतः उत्तरतश्च द्विषा विभक्तबिल्वयूपत्रिकयोस्स्थापनं । तथा तत्पार्श्ववर्तिदेवदारुयूपस्य दक्षिणोत्तरयोः खादिरत्रिकयोः । पलाशयूपास्त्वन्यत्र । एवं च प्रागुक्तबिल्वसमीपवर्तित्वधर्मः खादिरयूपानां सिद्धः । यथोक्तरूपतया बैल्वादियूपस्थापनं सूत्रात् 'त्रयो बैल्वा दक्षिणतस्त्रय उत्तरतः, त्रयः खादिरा दक्षिणतस्त्रय उत्तरतः' इति ॥ २१ ॥

 कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
 शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ २२ ॥

 शास्त्रज्ञैरिति । शिल्पशास्त्रज्ञैश्चेत्यर्थः । काञ्चनालङ्कृता भवन्निति । अभवन्निति यावत् । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः ॥२२॥

 एकविंशतियूपास्ते एकविंशत्यरत्नयः ।
 वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ २३

 'चतुर्विंशत्यङ्गुलयोऽरत्निः' इति सूत्रम् ॥ २३ ॥

 विन्यस्ता विधिवत्सर्वे शिल्पिभिस्सुकृता दृढाः ।
 अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २४ ॥

 अश्रयः–कोटयः । श्लक्ष्णः—[१] तक्षणसामर्थ्येन श्लक्ष्णेन-श्लक्ष्णस्पर्शवता रूपेण-स्वरूपेण समन्विताः ॥ २४ ॥


  1. सामर्थ्यजेन-ख.