पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
147
एकविंशतियूपांश्च स्थापयामासुरादरात्

 तथा तत्र संस्तरे-तस्मिन्यज्ञे । 'संस्तरौ प्रस्तराध्वरौ'[१]। प्रचोदिता इति । शास्त्रीयब्रूहिप्रेष्यादिशब्दैरिति शेषः ॥ १८ ॥

 नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।
 सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ १९ ॥

 सदस्याः–"सदस्या विधिदर्शिनः" इति निघण्टुः ॥ १९ ॥

 प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।
 तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ॥ २० ॥

 यूपोच्छ्रये-यूपोत्क्षेपणप्रैषकाल इति यावत् । बैल्वा इति-'तस्य विकारः' इत्यधिक रे 'बिल्वादिभ्योऽण्' इत्यण् । तावन्त इति । षडिति यावत् । अपि त्वेषां विशेषः-बिल्वसहिता इति । बिल्वयूपसमीपे स्वावस्थानवन्तः, प्रयोगेऽयं विशेषः । पर्णिनः–पर्णः-पलाशः;"पलाशे किंशुकः पर्णः"-पर्णः प्रकृतिभूतो येषां यूपानामिति पर्णिनः । तथेति । षट्सङ्ख्याका इति यावत् ॥ २० ॥

 श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा
 द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ २१ ॥

 श्लेष्मातकः–राज्जुदालपर्यायः । न च [२]विभ्वेकत्वं विवक्षितम् । दिष्टः-सन्दिष्टः–उपदिष्ट इति यावत् । तथा देवदारुमयोऽप्यस्ति यूपः, अपि तु नायमेकः, नापि षट्, अपि तु तत्र यज्ञे द्वावेव देवदारुयूपौ विहितौ । अपि च बाहुव्यस्तपरिग्रहौ । [३]आहिताग्न्यादि । व्यस्तबाहुभ्यां-प्रसारितभुजाभ्यां तावदायामेन परिग्रहः–स्वीकारो


  1. इति निघण्टुः-ग.
  2. विभत्रेकत्वं-जत्येकत्वमित्यर्थः
  3. आहिताग्न्यादित्वात्पूर्वनिपात इत्यर्थः