पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
146
[बालकाण्ड:
अश्वमेधः

 सिद्धस्येति । पक्वस्येति यावत् । इदमन्नकूटा इत्यन्नविशेषणम् । [१]अन्नेति लुप्तषष्ठीकमार्षम् । अन्नस्य कूटा इति यावत् ॥ १३ ॥

 नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।
 अन्नपानैस्सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १४ ॥
 सुविहिता इति । सुविहिततृप्तिका इति यावत् ॥ १४ ॥
 अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।
 अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ १५ ॥
 स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
 उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १६ ॥

 ब्राह्मणपरिवेषणस्य पुरुषकर्तृत्वं भोक्तृबहुत्वेन स्त्र्यसाध्यत्वात् । स्वलङ्कृता इत्यनेन शुचित्वं प्रदर्शितम् । सुमृष्टमणिकुण्डला इत्यनेन यज्ञपरिचारकसत्कारवैभवो राजकृतः प्रकाश्यते । तानिति । परिवेषयितृृनिति यावत् । अन्य इति । तत्सहायभूता हति यावत् । सुमृष्टं-उत्तेजितं–मणिखचितं कुण्डलं–कर्णाभरणविशेषो येषां ते तथा ॥ १६ ॥

 कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
 प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥ १७ ॥

 कर्मान्तरे–एकं सवनं समाप्य पुनस्सवनान्तरारम्भकालागमात् पूर्वस्मिन्नन्तरालकाले । हेतूपन्यासविशेषैः परस्परविजिगीषार्थाः वादाः ॥ १७ ॥

 दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
 सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १८ ॥


  1. सिद्धस्येति विशेषणान्वयसौकर्याय आह–अन्नेति लुप्तषष्ठीकिमिति । तथा च सिध्दस्यान्नस्य कूटा इत्यन्वयः । न तत एकदेशान्वयदोष इति भावः ।