पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
145
ऋश्यश्शृङ्गमुखाश्चक्रुरश्वमेधं यथाविधि

 न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।
 नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ ९ ॥

 श्रान्तः-स्वार्त्विज्याशक्तः । तत्र-तद्यज्ञर्त्विक्षु । शतं अनुचराः न विद्यन्ते यस्य स तथा ॥ ९ ॥

 ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।
 तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ १० ॥

 नाथवन्तः-दासाः-शूद्रा इति यावत् । तापसाः-शैवमार्गगाः[१] शुद्राः । श्रमणाः--त्यक्तपुत्र [२]भृत्यादिसंसाराः काषायाम्बराः शूद्रविशेषाः ॥ १० ॥

 वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।
 अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ ११ ॥

 व्याधिताः-संजातव्याधयः । स्त्रिय इति-आकुलस्त्रियः । न तृप्तिरुपलभ्यत इति । भोजनसौष्ठवाददरपूर्तावपि मानसी तृप्तिर्नोपलभ्यते । वतोदरं पूर्णं ! एवं भक्ष्यमेवं भोज्यमेवं धनक्षीरशर्कराम्रकदस्यादि, न शक्नुमो भोक्तुं, किं कुर्म इति ॥ ११ ॥

 दीयतां दीयतामन्नं वासांसि विविधानि च ।
 इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ १२ ॥

 तथा चक्रुरिति । दत्तवन्त इति यावत् ॥ १२ ॥

 अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।
 दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ १३ ॥


  1. मार्गक्षिताः-ख.
  2. मित्रादि-ग.