पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
144
[बालकाण्डः
अश्वमेधः

 प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।
 चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ ४ ॥

 उपसदं । यागविशेषप्राप्तमिष्टिविशेषम् । अधिकमिति । प्रकृत्युपदिष्टांगानुमितौ तत्तद्विकृत्यपेक्षातो विशेषोऽधिकं कर्म ॥ ४ ॥

 अभिपूज्य ततो दृष्टाः सर्वे चक्रुर्यथाविधि ।
 प्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवः ॥ ५ ॥

 अभिपूज्येति । तत्तत्कर्मभिः पूजनीयां देवतामिति शेषः । अस्यैव प्रपञ्चः-प्रातस्सवनेत्यादि ॥ ५ ॥

 ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतोऽनघः ।
 माध्यान्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ ६ ॥

 ऐन्द्रं चेति । इन्द्रदेवताकहविर्विशेषः । राजा-सोमलता । अभिष्टुतः, ग्रावभिस्संक्षुद्य सारनिस्सारणमभिषवः ॥ ६ ॥

 तृतीयतवनं चैव राज्ञोऽस्य सुमहात्मनः ।
 [१]चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ ७ ॥
 नचाहुतमभूत्तत्र स्खलितं वाऽपि किं च न ।
 दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १० ॥

 अहुतमिति । अन्यथा हुतमित्यर्थः । स्खलितं-अज्ञानतः कस्यचित्कर्मणस्त्यागः । ब्रह्मवत्-मन्त्रवत् । क्षेमः-विध्यपराधराहित्यम् ॥ १० ॥


  1. एतदनन्तरं-आह्वयाञ्चक्रिरे तत्र शक्रादीविबुधोत्तमान् । ऋश्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥ गीतिभिर्मधुरैः स्निग्धैर्मन्त्राहा नैयथार्हतः । होतारो ददुरावाह्यहविर्भोगान्दिवौकसाम् ॥ इदमधिकं-ङ.