पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
143
अथ संवत्सरे पूर्णे राज्ञो यज्ञोऽभ्यवर्धत

अथ चतुर्दशः सर्गः

[अश्वमेधः]

 अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।
 सरय्वाश्रोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥

 एवं वसन्तोत्सृष्टाश्वत्वात् पुनर्वसन्तप्रवृत्तिकाले तन्मेदःपुरोडाशेन [१]यागाय सम्भारसम्भरणादिशाला प्रवेशनान्तकर्माणि प्रवृत्ते वसन्तान्तरे संवत्सरपूर्तौ [२]मेध्ये तुरङ्गे सदः प्राप्ते सति पश्चाद्यथाविधि यज्ञप्रवृत्युपदेशः, काव्यलक्षणत्वाच्च यज्ञवर्णनम्-अथेत्यादि । संवत्सरे पूर्णे इति । त्रिंशद्दिनात्मकसावनमासपरिच्छिन्नोऽत्र संवत्सरो भवतीति सूत्रात् ॥ १ ॥

 ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।
 अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥

 ऋश्यशृङ्गं पुरस्कृत्येति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं च तस्येति गम्यते ॥ २ ॥

 कर्म कुर्वन्ति विधिवत् याजका वेदपारगाः ।
 यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ ३ ॥

 यथाविधीति। विधिः–वेदः साक्षात् ; विप्रकीर्णतया वेदविहितार्थस्य प्रयोगानुकूलतया साकल्यविधिः कल्पसूत्रं-शास्त्रम् ; तत्प्रतिपाद्यार्थस्यैव पूवोत्तरपक्षप्रवर्तनेन स्थिरीकारिका पूर्वमीमांसा-न्यायः, [३]तदनतिक्रम्येति यावत् । शास्त्रतः परिक्रामन्तीति । अमुकर्त्विजि अमुकं कुर्वाणे तस्मिन्नेव काले अनेनर्त्विजेदं कर्तव्यमित्यादि तच्छास्त्रतः प्रतिपाद्यमानं स्वस्वकर्मकालमविस्मृत्य परिकामन्ति-प्रवर्तन्त इत्यर्थः ॥ ३ ॥


  1. यागादि-ग.
  2. मेध्यतुरङ्गे-ग.
  3. तच्चानतिक्रम्या-ग.