पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
142
[बालकाण्डः
अश्वमेधदीक्षा

 निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥ ३४ ॥
 सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
 द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३५ ॥

 अन्तिकादिति । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति चकारेण पञ्चमीसमुच्चयः, अन्तिकेन वर्तमानं यज्ञायतनं-शालामित्यर्थः । मनसेवेति क्षिप्रसिद्धत्वे उपकरणसौष्ठवे च दृष्टान्तः ॥ ३५ ॥

 [१]तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।
 शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ ३६ ॥
 ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
 ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ३७ ॥
 यज्ञवाटगतास्सर्वे यथाशास्त्रं यथाविधि ।
 श्रीमांश्च सहपत्नीभी राजा दीक्षामुपाविशत् ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोदशः सर्गः

 आरभत्रिति छान्दसः । यज्ञवाटगतास्सर्वे यजमानर्त्विगादयः स्वीयं स्वीयं यज्ञकर्म यथाविधि यथाकल्पसूत्रं यथाशास्त्रं, शास्त्रं-मीमांसा, तच्चानतिक्रम्यारभन्तेत्यर्थः । जाल (३८) मानः सर्गः ॥ ३८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोदशः सर्गः


  1. वसिष्ठेत्यविभक्तिको निर्देशः । वसिष्ठस्य ऋष्यशृङ्गस्य चोभयोरित्यर्थः-गो.