पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः ]
141
शुभे दिवसनक्षत्रे रजा दीक्षामुपाविशत्

 ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।
 सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ २९ ॥

 ते चेति । पूर्वनियुक्ता इत्यर्थः । यज्ञ इति [१]निमित्तसप्तमी ॥ २९॥

 [२]ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ।
 अवज्ञया न दातव्यं कस्यचिल्लीलयाऽपि वा ॥ ३० ॥
 अवज्ञया कृतं हन्यात् दातारं नात्र संशयः ।

 अवश्यशिक्षणीयांश पुनश्च शिक्षयति-अवज्ञयेत्यादि । कुत एवमिहातिवर्तत इत्यत्र-अवश्येत्यादि ॥ ३० ॥

 ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ ३१ ॥
 बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ।

 तत इति । सुमन्त्रगमनानन्तरमित्यर्थः । रत्नानीति । मणिमुक्तादिरत्नविचित्राभरणाम्बरचन्दनकुङ्कुमकर्पूराद्युत्तमवस्तूनीत्यर्थः ॥ ३१ ॥

 ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् ॥ ३२ ॥
 उपयाता नरव्याघ्र ! राजानस्तव शासनात्
 मया च संकृताः सर्वे यथार्ह राजसत्तमाः ॥ ३३ ॥
 यज्ञियं च कृतं राजन् ! पुरुषैः सुसमाहितैः

 यज्ञियमिति । यज्ञमर्हति, 'यज्ञर्त्विग्भ्यां घखञौ 'इति घः । यज्ञाय यस्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ॥ ३३ ॥


  1. निमित्ते सप्तमी-ग
  2. एतदनन्तरं भवद्भिर्न तथा यज्ञे परिहास्येत कश्चन ॥ इदमधिकम्-ङ.