पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः]
135
ऋश्यशृङ्गप्रभृतयो मुनयोऽप्यनुमेनिरे

 ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
 अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥
 [१]गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः ॥
 विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वादशः सर्गः

 गतानामित्यादि । गतेषु द्विजातिष्विति यावत् । संवत्सरान्ते यागार्थं अश्वं विसर्जयित्वेति शेषः । 'षष्ठी चानादरे' इति भावलक्षणमात्रेऽपि छन्दसि षष्ठी । तथाऽन्यत्रापि ॥ २१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वादशः सर्गः


अथ त्रयोदशः सर्गः

[अश्वमेधदीक्षा]

 पुनः प्राप्ते वसन्ते तु पूर्णस्संवत्सरोऽभवत् ।
 प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १ ॥

 अथ 'संवत्सरान्ते दीक्षेत' इति सूत्रात् पूर्ववसन्तविसृष्टाश्वस्य पुनः संवत्सरान्ते प्राप्ते दीक्षादिप्रवृत्तिरुपदिश्यते-पुनरित्यादि । पूर्णस्संवत्सरोऽभवदिति । पूर्ववसन्ते ऋत्विजो वरित्वा 'इह धृतिस्स्वाहेहविधृतिस्स्वाहेह रन्तिस्स्वाहेह चतुर्षु पत्सु जुहोति' इति विहरन्तीकर्मानुष्ठानपूर्वं 'भूरसि भुवे त्वा भव्याय त्वा भविष्यतेत्युत्सृजति सर्वत्वाय' इति विसृष्टाश्वस्येति शेषः । प्रसवार्थमित्यादि । 'प्रजापतये त्वा जुष्टं प्रोक्षामि प्रजापतिं वा एष ईप्सतीत्याहुः योऽश्वमेधेन यजते'


  1. इदमधिकम्-ङ, गतेष्वथ द्विजाग्येषु-ङ.