तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् ॥ ९ ॥
ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्चयुतम् ॥ १० ॥
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ।
[१]सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥
सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥
ततः प्रीतोऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ १३ ॥
गुरूणां वचनाच्छीघ्रं सम्भारास्सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १४ ॥
सम्भ्रियन्तु-सम्भारोपस्थानं कुर्वन्तु । छान्दसं परस्मैपदम् ॥ १४ ॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत्कष्टो यद्यस्मिन् ऋतुसत्तमे ॥ १६ ॥
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः ।
विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १८ ॥
तथेति च ततस्सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद्वाक्यं यथाऽऽज्ञप्तमकुर्वत ॥ १९ ॥
- ↑ एतदनन्तरं 'सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्' इति ङ,