पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२ सर्गः]
133
ततः प्राप्ते वसन्ते तु राज्ञे यष्टुं मनोऽभवत्

 ततः प्रसाद्य शिरसा तं विनं देववर्णिनम् ।
 यज्ञाय वरयामास सन्तानार्थं कुलस्य वै ॥ २ ॥

 देववर्णिनं-देवतेजसम् । सन्तानार्थं यज्ञायेति । सन्तानप्रयोजनमुद्दिश्य तच्छेषतया अश्वमेधयज्ञार्थमित्यर्थः ॥ २ ॥

 तथेति च स राजानमुवाच च सुसत्कृतः ।
 [१]सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥
 ततो राजाऽब्रवीत् [२]सूतं ब्राह्मणान् वेदपारगान् ।
 सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ॥ ४ ॥

 ततो राजा सूतमब्रवीत् । किमब्रवीदित्यतः-ब्राह्मणेत्यादि । हे सुमन्त्र, ब्राह्मणान् वेदपारगान् ऋत्विगादींश्च आवाहयेति ॥ ४ ॥

 सुयज्ञं वामदेवं च जावालिमथ काश्यपम् ।
 पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातयः ॥ ५ ॥
 ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
 समानयत् स तान् सर्वान् समर्थान् वेदपारगान् ॥ ६ ॥

 ततः सुमन्त्र इत्यादिर्गतार्थः ॥ ६ ॥

 तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
 धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥
 मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
 तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥


  1. एतदनन्तरं-सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् इदमधिकं-ङ.
  2. वाक्यं सुमन्त्रं मन्त्रिसत्तमम्-ङ.