अन्तःपुरस्त्रियस्सर्वाः शान्तां दृष्ट्वा तथाऽऽगताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्याऽऽनन्दमुपागमन् ॥ ३० ॥
पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित्कालं [१]सहद्विजा ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकादशः सर्गः
सहद्विजेति । सहभर्तृकेति यावत् ॥ ३१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकादशः सर्गः
अथ द्वादशः सर्गः
[अश्वमेधसंभारः]
ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १ ॥
एवमानीतादृश्यशृङ्गात् पुत्रप्राप्तौ निश्चितायां तस्याश्च तदसाधारणफलकपुत्रकामेष्टिसाध्यत्वात्तत्फलस्य च पापप्रतिबन्धे प्रतिबन्धस्यावश्यकत्वात् "सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते इति श्रुतेः सार्वभौमाधिकारिकाश्वमेधेनैव तस्य सार्वभौमस्य सर्वपापनिवृत्तेस्साध्यत्वात् ऋश्यराङ्गप्रसङ्गात् प्रागेव च सामान्यतस्तत्तत्प्रकृतेस्संक्षिप्तत्वाच्च प्रथमं प्रथमसङ्कल्पिताश्वमेधेन यजनप्रवृत्तिः इत्यादि । बहुतिथे-बहूनां पूरणो बहुतिथः । 'तस्य पूरणे' इति डट्, तस्मिन् परे 'बहुपूगण' इत्यादिनाङ्गस्य तिथुगागमः ; बहुकाल इति यावत् । अतीत इति शेषः । कस्मिंश्चिद्वसन्त इति योजना ॥ १ ॥
- ↑ सहर्त्विजा-ङ.