तावन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा ।
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ २२ ॥
ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।
पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥ २३ ॥
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।
धूपितं सिक्तसंमृष्टं पताकाभिरलङ्कृतम् ॥ २४ ॥
स्वलङ्कृतमित्यस्यैव प्रकारकथनं-धूपितमित्यादि । इतजन्तोऽयम् । पूर्वं सिक्तः पश्चात्संमृष्टः तथा । 'पूर्वकाल' इति समासः ॥ २४ ॥
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ २५ ॥
ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।
शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६ ॥
ततः प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् ।
[१]प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ २७ ॥
द्विजमिति । ऋश्यशृङ्गमिति यावत् । प्रवेश्यमानं सत्कृत्येति । नगरालङ्कारचतुरङ्गबलोपेता[२]भ्युत्थानादिनेति शेषः । इन्द्रसहायार्थं कर्म यस्य स तथा; एतेन राज्ञस्समग्रमहिमा सूचितः ॥ २८ ॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः ।
कृतकृत्यं तदाऽऽत्मानं मेने तस्योपवाहनात् ॥ २९ ॥
उपवाहनात्-स्वसमीपानयनात् ॥ २९ ॥