ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥
ततो राजेति । रोमपाद इति यावत् । तस्य वै राज्ञ इति । दशरथस्येति यावत् ॥ १६ ॥
रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥
रोमपादेन स्वस्य दशरथस्य च सख्यं-सखित्वं यौतादिसम्बन्धकं चैव ऋषिपुत्रायाख्यातमभूत् । तदेत्यादि । श्रवणानन्तरकाले तं-दशरथं ऋषिपुत्रः प्रत्यपूजयत् ॥ १७ ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ॥ १८ ॥
तेन सहेति । रोमपादेन सहेति यावत् ॥ १८ ॥
शान्ता तव सुता राजन् ! सहभर्त्रा विशांपते !
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥
शान्ता तव सुता राजन्-हे रोमपाद ! एवं स्पष्टे दशरथस्य कन्या शान्तेति प्रलपितवन्तं किं ब्रूमः ॥ १९ ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥
सह भार्यया प्रतिश्रुत्य-तथा भवत्विति श्वशुरं प्रतिश्रुत्य, नृपं-दशरथं च प्रति तथास्त्वित्याह ॥ २१ ॥