पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः]
129
तमृश्यशृङ्गमानेतु प्रतस्थे मन्त्रिभिः सह

 पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
 वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥
 एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
 सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥

 पूर्वं-विभक्तिप्रतिरूपकमव्ययम्, पूर्वस्मिन् काले । कस्मिन्पूर्वस्मिन् काले इत्यतः-पुरा देवयुग इति । कृतयुग इति यावत् ॥

 स त्वं पुरुषशार्दूल ! समानय सुसत्कृतम् ।
 [१]स्वयमेव च राजेन्द्र ! गत्वा सबलवाहनः ॥ १२ ॥

 स्वयमेवेति । न पुरोहितादिद्वारा ॥ १२ ॥

 [२]अनुमान्य वसिष्टं च सूतवाक्यं निशम्य च ।
 सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥

 अनुमान्य-कृतानुमतिकं कृत्वा । [३]उक्तप्रक्रियः । पुरोहिते मयि स्थिते कथं यज्ञार्थं अन्यानयनमिति शङ्काप्रसङ्गात्तदनुमतिस्सुमन्त्रोक्त-वृत्तान्तकथनद्वारा । यत्रेति । रोमपादसमीप इत्यर्थः ॥ १३ ॥

 वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनैः ।
 अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥
 आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
 ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ १५ ॥


  1. एतदनन्तरं, सुमन्त्रस्य वचश्श्रुत्वा हृष्टो दशरथोऽभवत् ॥ इदमधिकं-ङ.
  2. एतदनन्तर, वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः ॥ इदमधिकं ङ.
  3. प्रथमसर्गे ६९ तमश्लोकव्याख्यायां 'अनुमान्य' इतिशब्दस्य प्रक्रिया उक्तेत्यर्थः । वक्तप्रक्रिय इति बहुव्रीहिः । शब्द इति विशेष्यमध्याहार्यम् ॥