पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
126
[बालकाण्डः
ऋश्यशृङ्मागानयनम्

ब्रह्मचर्य [१]प्रतिपादनार्थम् । अपूपादेः फलत्वेन मननं च तदशुद्धिनिरासार्थम् । तद्भक्षणादिकं च तासां निजानुकूल्यद्योतनार्थम् । तच्च स्वप्रारब्धभोगशेषतयेत्युक्तमेव ॥ ३१ ॥

 अन्तःपुरं प्रविश्यास्मै कन्यां दत्वा यथाविधि ।
 शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ ३१ ॥
 एवं स न्यवसत्तत्र सर्वकामैस्सुपूजितः ।
 ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे दशमः सर्गः

 द्वात्रिंशत् (३२) । आहत्य शतांग (३६५) मानम् ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे दशमः सर्गः


अथ एकादशः सर्गः

[दशरथेन स्वनगरं प्रति ऋश्यशृङ्गानयनम्]

 भूय एव हि राजेन्द्र ! श्रुणु मे वचनं हितम् ।
 यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १ ॥

 एवं रोमपादप्रसङ्गेन दशरथस्य ऋश्यशृङ्गात् पुत्रप्राप्तिकथां ब्रह्मपुत्रीयामुक्ता अथ प्राधान्यात् ऋश्यशृङ्गाद्दशरथस्य पुत्रप्राप्तिकथा च कालान्तरोक्ता ब्रह्मपुत्रीयाऽस्तीति सुमन्त्रोऽनेकयुगवृद्धो राज्ञः ऋश्यशृङ्गानयनमेव साक्षात्पुत्रप्राप्तिसाधनमिति स्थैर्यायाह-भूय इत्यादि । देवप्रवर इति । यः पूर्वं रोमपादप्रसङ्गेन त्वत्पुत्रोपायमुक्तवान् स ब्रह्मपुत्र इत्यर्थः । कथायामिति । कालान्तरीयायामिति शेषः ॥ १ ॥


  1. प्रतिपादनपरम्-ग.