पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः ]
125
रोमपादो ददौ कन्यां शान्तां तस्मै महर्षये

मयीति । किमर्थमेवं वरणम् । गणिकाभिः पश्चाद्यवहारकाले अतिजुगुप्सितप्रतीताभिर्विलोक्य-स्वानयनमन्वीक्ष्य मन्युः ऋश्यशृङ्गं विप्रेन्द्रं मा प्रविशत्विति। ततः प्रसन्नत्वादेव तन्मत्यनुरोधेनान्तः पुरप्रवेशशान्तापरिग्रहतत्सम्बन्धजसन्तोषश्च ॥

 सर्वमेतत् बालपिशाचकथोपमं मन्यामहे । कुतः ? अज्ञत्वे प्राकृतव- द्वर्षानुग्रहनिग्रहादिशक्त्यभावप्रसङ्गात् । पुत्राद्यर्थं याजनादिप्रवृत्त्ययोगात् । स्वपितर्येव निरतिशयनिर्मल-ब्रह्मचर्यवासतो निखिलवेदशास्त्रज्ञत्वपूर्णत-पस्त्वधर्मयोः स्थितयोः, अष्टविधस्त्रीप्रसङ्गपरिहारलक्षणब्रह्मचर्य परिज्ञाने च स्थिते, स्वस्य च ब्रह्मचर्याश्रमित्वात् तद्भ्रंशे परमानर्थपरिज्ञानवत्वे स्थिते शास्त्रत एव, अन्ततो वनचरस्त्रीणामेव अनुभवात् स्त्र्यादिस्वरूपपरिज्ञाने तत्परिहार्यत्वबुद्धौ दृढं जागरूकायां, कथं नाम कटाक्षेणापि स्त्रीं निरीक्षयेत् ; कथं च तमुन्मत्तमिव सर्वज्ञ स्त्रीपिशाच्यो विलोभयेयुः ? कुतश्च ताः स्वाश्रमपदं प्रापयेत् ? पित्राज्ञामीतः कुतस्तरां प्रपूजयेत् ? पितुरसन्निधिकालेऽपि कथं च पित्रनुमतिं पितृप्रीति चोपेक्ष्य ता अनुयायात् ? कथं च नाम विलोभ्य वाऽऽनीतः ? कुतः पुत्रं पिता नामार्गयत ? कथं च नेत्रीस्तास्तत्प्रयोजकं राजानं च समाधिना वीक्ष्य तत्क्षणादेव न क्रुद्धश्शपेत् ? अतः पिशाचकथोपममिति । अत्रोच्यते-प्रागुक्तरीत्याऽवर्ज्यप्राप्तसार्वज्ञ्यत्वात् प्राचीनकर्म-वशात् स्वजन्मविशेषसंम्बन्धवत् प्रारब्धकर्मवशादेव क्षत्रस्त्रीपरिग्रहकश्मलप्राप्तिरपि सर्वज्ञत्वाजानान एव तत्प्राप्तिद्वारभूतवेश्यापिशाच्यश्च विलोभ्यमान इवानुचक्रे । पिताऽपि सर्वज्ञतमत्वात् कुलवृद्ध्यै सन्तत्यपेक्षत्वात्तेनापि स्वपुत्रस्य क्षात्रक्षेत्रप्राप्तिं विदित्वा उपेक्ष्यैव तद्विवासं नान्विष्ट । अपि तु दशशिरोपहृतसीतां रामवत् अज्ञातपुत्रविदेशगमनेनेव स्थितमिति सर्वमवदातम् । अतस्त्विह कविनाऽन्यनारी नरापरिज्ञानवर्णनं नित्यप्रत्यङ्मुखत्वपूर्णब्रह्मचर्यत्वगुर्वैकायनलौकिकालौकिक-सर्वकृत्यत्वादिशुद्धतरपूर्ण-