पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
124
[बालकाण्डः
ऋश्यशृङ्गोपाख्यानम्

 चित्राण्यत्र बहूनि स्युः मूलानि च फलानि च ।
 तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ २६ ॥

 एष विधिरिति-स्वादिष्टभक्षणादिरूपः ॥ २६ ॥

 श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् ।
 गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ २७ ॥

 हृदयङ्गममिति । खच्प्रकरणे 'गमेस्सुप्युपसंङ्ख्यानम्' इति खच् । तं च निन्युरिति । गङ्गायां पूर्वस्थापितं नावमारोप्य प्रवहणेनैवाङ्गदेशनिन्युरिति भारते प्रसङ्गात् ॥ २७ ॥

 तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि ।
 ववर्ष सहसा देवो जगत्प्रहादयंस्तदा ॥ २८ ॥

 तत्र चाङ्गदेशे तस्मिन्विप्रे आनीयमाने तु देवो ववर्ष ॥ २८ ॥

 [१]वर्षेणैवागतं विप्रं विषयं स्वं नाराधिपः ।
 प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥

 तदा वर्षेण सहैवाभीष्टेन विषयं स्वं देशमागतं प्रत्युजगाम । प्रह्णः-शिरसा महीं गतश्च । प्रथमं केवलाञ्जलिपूर्वं साष्टाङ्गनमस्कारं कृतवानिति यावत् ॥ २९ ॥

 अर्घ्यं च प्रददौ तस्मै न्यायतस्सुसमाहितः ।
 वव्रे प्रसादं विप्रेन्द्रात् मा विप्रं मन्युराविशेत् ॥ ३० ॥

 वव्र इति । अर्ध्यादिपूजितं तं विप्रं ऋश्यशृङ्गं वव्रे । किं वव्रे ? तस्य प्रसादं–सौमुख्यमेव ; मह्यं नित्यं प्रसन्नो भव, सापराधेऽपि


  1. हर्षेणै-ङ.