पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
123
वञ्चयित्वा तु वेश्यामिः अनावृष्टिनिवृत्तये

पूर्वमनास्वादितानि । सुप्सुपेति समासः । फलानीति मन्यते स्मेति योजना ॥ २१ ॥

 आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य च ।
 गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥ २२ ॥

 व्रतचर्यामिति । [१]मिथ्यैव-गत्वास्माभिः किंचिद्व्रतमनुष्ठेयमिति-व्रतानुष्ठानं तस्य निवेद्य तस्मात् अपदेशात् व्याजात् । तस्य पितुः ऋषेः विभण्डकात् भीतास्तास्स्त्रियो गच्छन्ति स्म ॥ २२ ॥

 गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।
 अस्वस्थहृदयश्वासीद्दुःखं स्म परिवर्तते ॥ २३ ॥

 अस्वस्थहृदयः-अप्रसन्नचित्तश्चासीत् । हि-यस्मात् दुःखं-ताह-शजैह्वचाक्षुषादिविषयसुखविश्लेषजं संपरिवर्तते स्म ॥ २३ ॥

 ततो परेद्युस्तं देशं आजगाम स वीर्यवान् ।
 [२]मनोज्ञा यत्र ता दृष्टा वारमुख्या: स्वलङ्कृताः ॥ २४ ॥

 तत एव हेतोः । अपरेद्युश्च तं देशं जगाम । तमिति किमित्यतः-मनोज्ञा इत्यादि ॥ २४ ॥

 दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः ।
 उपसृत्य ततस्सर्वास्तास्तमूचुरिदं वचः ॥ २५ ॥

 एह्याश्रमपदं सौम्य ! ह्यस्माकमिति चाब्रुवन् ।


  1. अस्य निवेद्यत्यत्नान्वयः ॥
  2. एतदनन्तरं-विभण्डकसुतश्श्रीमान् मनसा चिन्तयन्मुहुः ॥ इदमर्धं कुत्रचिदधिकम्-ङ