पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
122
[बालकाण्डः
ऋश्यशृङ्गोपाख्यानम्

 आगतानां ततः पूजां ऋषिपुत्रश्चकार ह ।
 इदमर्ध्यमिदं पाद्यमिदं मूलमिदं फलम् ॥ १७ ॥
 प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः ।
 ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः ॥ १८ ॥

 सर्वा एव समुत्सुका इति । चिरं तदालापसमुत्सुका एवेति यावत् । ऋषेः-विभण्डकात् ॥ १८ ॥

 अस्माकमपि मुख्यानि फलानीमानि वै द्विज !
 गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ १९ ॥

 मुख्यानीति । प्रशस्तास्वादवन्तीति यावत् । फलानीति प्रतारणार्थं मोदका एवोच्यन्ते । गृहाणप्रतीति । 'छन्दसि परेऽपि' इति प्रयोगः, प्रतिगृहाणेति यावत् । ते भद्रं-भक्षणायातिमधुरम् । अतो भक्षयस्व, मा चिरं-विलम्बं मा कुरु ॥ १९ ॥

 ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः ।
 मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान् ॥ २० ॥

 समालिङ्ग्य । स्पर्शतो वशीकरणार्थमिति शेषः । हर्षसमन्विता इति-उभयथापि बालब्रह्मचारितस्सुन्दरालिङ्गनप्राप्तया स्वकार्यानुकूलस्पर्शसिद्ध्या च ॥ २० ॥

 तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।
 अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ २१ ॥

 वने नित्यनिवासिनां अनास्वादितपूर्वाणि, 'पूरणगुण' इति सुहितार्थयोगजषष्ठ्यास्समासनिषेधादेव ज्ञापकात् तृतीयार्थे षष्ठी,