पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्ग:]
121
रोमपादाज्ञयाऽऽनीतः ऋश्यशृङ्गो वनात् पुरम्

 कस्त्वमिति । किं जातिः ? कस्य पुत्र इत्यर्थः । किं वर्तसे इति । किं नामधेयो वर्तस इत्यर्थः । अपि च विजने एकस्सन् कथं चरसीति प्रश्नत्रयम् ॥ १२ ॥

 अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।
 हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ १३ ॥

 अदृष्टरूपाः । इतः प्रागदृष्टैवंरूपाः, अपि च कमनीयरूपाः तास्त्रियः । तेन वने दृष्टा इति शेषः ॥ १३ ॥

 पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः ।
 ऋश्यश्रङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १४ ॥

 इहाश्रमपदेऽस्माकं समीपे शुभदर्शनाः ।
 करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १५ ॥

 इह-वने समीपे वर्तमाने अस्माकं आश्रमपदे वः पूजां करिष्ये इत्यनेन नाहमेकाकी विजने वने पिशाचवत् सञ्चरामि, अपि तु समातापित्रकस्य मे स्वीयं स्थानमेवेत्युक्तं भवति । इहाश्रमपदोऽस्माकमिति पाठोऽस्तीत्यभिप्रेत्य तत्राश्रमपद इति लिङ्गव्यत्यय [१]इत्यन्ये । तदा तु व्यक्तमेव तृतीयप्रश्नोत्तरम् । अत्र सर्वेषामिति निर्देशस्त्वविवक्षितस्त्रीत्ववस्तुमात्राभिप्रायेण । एतेन स्त्रीविकारापरिज्ञानं द्योतितम् ॥

 ऋषिपुत्रवचश्श्रुत्वा सर्वासां मतिरास वै ।
 तदाश्रमपदं द्रष्टुं जग्मुस्सर्वाश्च तेन ताः ॥ १६ ॥

 असेः अनुप्रयोगवत् भूभावाभावश्छान्दसः ॥ १६ ॥


  1. गोविन्दराजादयः ॥