पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
120
[बालकाण्ड:
ऋश्यशृङ्गोपाख्यानम्

हितस्य च द्विजत्वात् गणिकादिव्यवहारोऽनुचित इति सोऽपि मन्त्रिणः प्रत्युवाच गणिकानियोगं । ते मन्त्रिणस्तथा चक्रुः; साक्षाद्गणिकाः प्रैरयन् तच्छ्रुत्वेति यावत् ॥ ६॥

 आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥ ७ ॥
 ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ।
 पितुस्स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ ८ ॥

 यद्वनं प्रविविशुः, अस्मिन् वने आश्रमस्य-विभण्डकाश्रमस्य अविदूरे स्थित्वा धीरत्वादिगुणकस्य ऋषिपुत्रस्य दर्शने यत्नं कुर्वन्ति स्म । पितुरिति । उपलालनभेदैरिति शेषः ॥ ८ ॥

 न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।
 स्त्री वा पुमान् वा यच्चान्यत् सर्वं नगरराष्ट्रजम् ॥ ९ ॥

 नगरजं सत्वं उत्तमाश्वादिकं । राष्ट्रजं सत्वं ग्रामसूकरकुक्कुटादिः ॥

 ततः कदाचित्तं देशमाजगाम यदृच्छया ।
 विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १० ॥

 कदाचिदिति । दैवगत्येति । शेषः । तं देशमिति । वारस्त्रीसञ्चारप्रदेशमित्यर्थः ॥ १० ॥

 ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः ।
 ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ ११ ॥
 कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम्
 एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १२ ॥