पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
119
ऋश्यशृङ्गकथां सूतस्त्वब्रवीत् राजचोदितः

 रोमपादमुवाचेदं सहामात्यः पुरोहितः ।
 उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥ २ ॥

 रोमेत्यादि । सहामात्यः पुरोहितो रोमपादमिदमुवाच । किमुवाचेत्यतः-उपाय इत्यादि ॥ २ ॥

 ऋश्यशृङ्गो वनचरः तपस्स्वाध्यायने रतः ।
 अनभिज्ञस्स नारीणां विषयाणां सुखस्य च ॥ ३ ॥

 ऋश्येत्यादि । नारीणां विषयाणामिति व्याधिकरणे सम्बन्धमात्रे षष्ठ्यौ ॥ ३ ॥

 इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।
 पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ ४॥

 इन्द्रियार्थाः-द्रव्यवस्त्रगीत्यादयः । अध्यवसीयतामिति । अस्मदुक्तार्थकरण इति शेषः ॥ ४ ॥

 गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः ।
 प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः ॥ ५॥

 किं मयाऽनुष्ठयमित्यतो–गणिका इत्यादि । सत्कृताः-विचित्राम्बराभरणानपानकृतोपचारा गणिका इति योजना ॥ ५ ॥

 श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।
 पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा ॥ ६ ॥
 वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् ।

 राजा पुरोहितं तथेति प्रत्युवाचेति । मन्नियोगात् भवानेव तथा अनुतिष्ठेत्युक्तवानित्यर्थः । अत्यल्पविषयत्वाद्राज्ञ एवंवादः । अथ पुरो-